मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला । मेदा पयस्या काकोलीमूलञ्चैवाश्वगन्धजम् ॥७६॥
अजमोदा हरिद्रे द्वे हिङ्ग कटुकरोहिणी । उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम् ॥७७॥
एतेषां कार्षिकैर्भागैर्धृतप्रस्थं विपाचयेत् । शतावरीरसं क्षीरं घृताद्देयं चतुर्गुणम् ॥७८॥
सर्पिरतन्नरः पीत्वा नित्यं स्त्रीषु वृषायते । पुत्रान् सञ्जनयेन्नारी मेधाढ्यान् प्रियदर्शनान् ॥७९॥
या चैवास्थिरगर्भा स्याद्या च वा जनयेन्मृतम् । अल्पायुद्धं वा जनयेद या च कन्यां प्रसूयते ॥८०॥
योनिदोषे रजोदोषे परिस्त्रावे च शस्यते । प्रजावर्द्धनमायुष्यं सर्वग्रहनिवारणम् ॥८१॥
नाम्ना फलघृतं ह्येतदश्विभ्यां परिकीर्त्तितम् । अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ॥८२॥
जीवद्वत्सैकवर्णाया घृतमत्र तु गृह्यते । आरण्यगोमयेनापि वह्निज्वाला प्रदीयते ॥८३॥
(Bhaishajya Ratnavali/Yonivyapadrogadhikara/Shalok 76-83)
This ayurvedic classical formulation is used in conditions such as:
- Strishu Vrishayate (Enhances male fertility/libido)
- Putrajanana (Helps in the conception of healthy male offspring)
- Medhadhyana (Improves intellect)
- Priyadarshana (Improves child’s appearance)
- Asthiragarbha (Prevents miscarriage)
- Mritajanana (Prevents stillbirths)
- Alpayudha (Prevents weak offspring)
- Yoni Dosha (Treats uterine disorders)
- Rajo Dosha (Corrects menstrual irregularities)
- Paristrava (Controls excessive vaginal discharge)
- Praja Vardhana (Enhances fertility)
- Ayushya (Promotes longevity)
Fal Kalyan Ghrit is a classical herbal formulation being used for promoting a good male and female reproductive health.