हिड्डुलसम्भवं सूतं गन्धकं टङ्गणं तथा । ताम्र वङ्गं माक्षिकञ्च सैन्धवं मरिचं तथा ॥१०४३॥
समं सर्वं समाहत्य द्विगुणं स्वर्णभस्मकम्। तदर्द्ध कान्तलौहञ्च रौप्यभस्मापि तत्समम् ॥१०४४॥
एतत्सर्वं विचूर्य्याथ भावयेत्कनकद्रवैः । शेफालीदलजैश्चापि दशमूलरसेनच ॥१०४५॥
किराततिक्तकक्वाथैस्त्रिवारं साधयेत्सुधीः । भावयित्वा ततः कार्या गुञ्जाद्वयमिता वटी ॥१०४६॥
अनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् । जीर्णज्वरं महाघोरं चिरकालसमुद्भवम् ॥१०४७॥
ज्वरमष्टविधं हन्ति साध्यासाध्यमथापि वा । पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान् ॥१०४८॥
मेदोगतं मांसगतमस्थिमज्जगतं तथा । अन्तर्गतं महाघोरं बहिःस्थञ्च विशेषतः ॥१०४९॥
नानादोषोद्भवञ्चैव ज्वरं शुक्रगतं तथा । निखिलं ज्वरनामानं हन्ति श्रीशिवनिर्मितः ॥१०५०॥
जयमङ्गलनामाऽयं रसः श्रीशिवनिर्मितः । बलपुष्टिकरश्चैव सर्वरोगनिबर्हणः ॥१०५१॥
(Bhaishajya Ratnavali / Jwaradhikara / Shlok 1043–1051)
This classical ayurvedic formulation is used in conditions such as:
- Jirna Jwar (Chronic fever)
- Mahaghor Jwar (Severe fever)
- Chirakalodbhav Jwar (Long-standing fever)
- Ashta Vidha Jwar (Eight types of fever)
- Sadhya-Asadhya Jwar (Curable and incurable fevers)
- Vishama Jwar (Irregular fever / Malaria-like)
- Antargata Jwar (Internal fevers)
- Nana Doshodbhava Jwar (Fevers of multi-doshic origin)
- Balapustikara (Strength and nourishment booster)
Jai mangal ras is an ancient ayurvedic preparation in tablet form used in maintaining a healthy digestive system.
This is pure classical Ayurvedic medicine and should be strictly consumed only after prescription of an Ayurvedic doctor and to be taken under medical supervision only.